|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.8. अध्यायः 008
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रत्यर्जुनवचनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-8-0x(6715)(81092)
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी।
अभिनीततरं वाक्यं दृढवादपराक्रमः॥ 12-8-1(81093)
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः।
स्मयमानो महातेजाः सृक्किणी परिसंलिहन्॥ 12-8-2(81094)
अर्जुन उवाच। 12-8-3x(6716)
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्।
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम्॥ 12-8-3(81095)
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्।
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात्॥ 12-8-4(81096)
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः।
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः॥ 12-8-5(81097)
यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव कस्य चित्।
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः।
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः॥ 12-8-6(81098)
कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः।
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति॥ 12-8-7(81099)
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः।
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो॥ 12-8-8(81100)
कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुंधराम्।
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे॥ 12-8-9(81101)
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः।
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्विषम्॥ 12-8-10(81102)
आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत्।
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह॥ 12-8-11(81103)
आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान्।
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते॥ 12-8-12(81104)
धर्मं स हरते तस्य धनं हरति यस्य यः।
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि॥ 12-8-13(81105)
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्।
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति॥ 12-8-14(81106)
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते।
विशेषं नाधिगच्छामि पतितस्याधनस्य च॥ 12-8-15(81107)
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः॥ 12-8-16(81108)
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप।
प्राणयात्राऽपि लोकस्य विना ह्यर्थं न सिध्द्यति॥ 12-8-17(81109)
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥ 12-8-18(81110)
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः॥ 12-8-19(81111)
अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम्।
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः॥ 12-8-20(81112)
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप॥ 12-8-21(81113)
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते।
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम॥ 12-8-22(81114)
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति।
धनाद्धि धर्मः स्रवति शैलादभिनदी यथा॥ 12-8-23(81115)
यः कृशार्थः कृशगवः कृशभृत्यः कृशांतिथिः।
स वै राजन्कृशो नाम न शरीरकृशः कृशः॥ 12-8-24(81116)
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा।
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः॥ 12-8-25(81117)
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्।
एतावानेव वेदेषु निश्चयः कविभिः कृतः॥ 12-8-26(81118)
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता।
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः॥ 12-8-27(81119)
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः।
द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः॥ 12-8-28(81120)
इति देवा व्यवसिता वेदवादाश्च शाश्वताः।
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च॥ 12-8-29(81121)
कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः।
न पश्यामोऽनपकृतं धनं किंचित्क्वचिद्वयम्॥ 12-8-30(81122)
एवमेव हि राजानो यजन्ति पृथिवीमिमाम्।
जित्वा ममेयं ब्रुवते पुत्रा इव पितृर्धनम्॥ 12-8-31(81123)
राजर्षयोऽपि ते स्वर्ग्या धर्मो ह्येषां निरुच्यते॥ 12-8-32(81124)
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश।
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति॥ 12-8-33(81125)
आसीदियं दिलीपस्य नृगस्य नहुषस्य च।
अंबरीपस्य मान्धातुः पृथिवी सा त्वयि स्थिता॥ 12-8-34(81126)
स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः।
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम्॥ 12-8-35(81127)
येषां राजाऽश्वमेधेन यजते दक्षिणावता।
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते॥ 12-8-36(81128)
विश्वरूपो महादेवः सर्वमेधे महामखे।
जुहाव सर्वभूतानि तथैवात्मानमात्मना॥ 12-8-37(81129)
शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम।
महाजनपथं गन्ता मा राजन्कुपथं गमः॥ ॥ 12-8-38(81130)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टमोऽध्यायः॥ 8॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-8-1 दृढौ युक्तिशक्त्युपेतौ वादपराक्रमावुक्तिविक्रमौ यस्य स तथा॥ 12-8-2 दर्शयन्नैन्द्रमात्मनिमिति ड.थ.द. पाठः॥ 12-8-5 क्लीबस्य स्वीयवधे कातरस्य। दीर्घसूत्रस्य परवधे अलसस्य॥ 12-8-6 यः पुमान्हतस्वस्तिर्नष्टकल्याणः। अकिञ्चनो दरिद्रः। अतएव कमात्सर्वलोकेषु न विख्यातः। पुत्रपशुसंहितः पुत्रादिभिराश्लिष्टश्च न भवति। स भैक्षं आजिजीविषेदुपजीवितुमिच्छेत्। स कर्मणा पौरुषेण कस्यचिदपि परस्य। समारभ्यन्त इति समारम्भा अर्थास्तान्नैव बुभूषेत नैव प्राप्तुमिच्छेत्। त्वं तु प्राप्तकल्याणः संपन्नः ख्यातः पुत्राद्याश्लिष्टश्च पौरुषेणार्थांल्लब्ध्वा नाजिजीविषेद्भैक्षं कर्मणा येन केनचित्। समारम्भाद्वुभूषेत हतस्वस्तिरकिञ्चनः। इति ट. ड. पाठः। यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव केनचित्। इति थ. पाठः। सर्वलोकेन विख्यातो न पुत्रपशुसंहितः। कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतीति ट. ड. थ. द. पाठः॥ 12-8-7 कापालीं भिक्षापात्रवतीम्। संत्यज्यराज्यमृद्धिं त्वां लोकोऽयं प्रवदिष्यतीति ट. ड. पाठः॥ 12-8-8 सर्वारम्भान्सर्वार्थान्धर्मादीन् प्राकृतवन्मूढवत्॥ 12-8-11 आकिञ्चन्यं मुनीनां च राज्यादप्यधिकं मतमिति यद्वाक्यं तदुद्दिश्य नहुषो राजा अधनतामिह धिगस्त्वित्यब्रवीत्। अधने धनाभावे निमित्ते सति पुरुषो नृशंसं कर्म कृत्वा जीवतीति दारिद्र्यं पापहेतुत्वान्निन्दितवानित्यर्थः। आकिञ्चन्यमहीनस्य मृत्यवे इति ट. ड. थ. पाठः॥ 12-8-25 यत्तूक्तं ज्ञातीनां परस्परं युद्धे हतानां हन्तॄणां च श्रेयो नास्तीति तच्छिष्टाचारदर्शनेन दूषयति। अवेक्षस्वेत्यादिना॥ 12-8-26 अन्यस्य परस्य धनं चेन्न हर्तव्यं तत्तर्हि राजा कथं धर्ममाचरेत्। तस्य वृत्त्यन्तराभावान्न कथंचिदित्यर्थः॥ 12-8-32 निरुच्यते उत्कृष्टत्वेन कीर्त्यते॥ 12-8-33 स्यन्दन्ति प्रस्रवन्ति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|